|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.187. अध्यायः 187
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरादीन्प्रति मृतस्य पुनरुज्जीवनशक्त्यादिरूपब्राह्मणमाहात्म्यकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-187-0x(2369)(23118)
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा।
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् ॥ 3-187-1(23119)
एवमुक्तः स भगवान्मार्कण्डेयो महातपाः।
उवाच सुमहातेजाः सर्वशास्त्रविशारदः ॥ 3-187-2(23120)
हेहयानां कुलकरो राजा परपुरंजयः।
कुमारो रूपसंपननो मृगयां व्यचरद्बली ॥ 3-187-3(23121)
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते।
कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके ॥ 3-187-4(23122)
स तेन हिंसितोऽरण्ये मन्यमानेन वै मृगम्।
व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः ॥ 3-187-5(23123)
जगाम हेहयानां वै सकाशं प्रथितात्मनाम्।
राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते ॥ 3-187-6(23124)
तेषां च तद्यथावृत्तं कथयामास वै तदा।
`स कुमारो महीपालो हेहयानां महीभृताम्' ॥ 3-187-7(23125)
तं चापि हिंसितं तात मुनिं मूलफलाशिनम्।
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः ॥ 3-187-8(23126)
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः।
जग्मुश्चारिष्टनाम्नोऽथ तार्क्ष्यस्याश्रममञ्जसा ॥ 3-187-9(23127)
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम्।
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् ॥ 3-187-10(23128)
ते तमूचुर्महात्मानं न वयं सक्रियां मुने।
त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः ॥ 3-187-11(23129)
तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः।
क्व चासौ ब्रूत सहिताः पश्यध्वं मे रतपोबलम् ॥ 3-187-12(23130)
ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम्।
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः ॥ 3-187-13(23131)
अन्वेषमाणाः सव्रीडाः सुप्तवद्गतमानसाः।
तानब्रवीत्तत्रमुनिस्तार्क्ष्यः परपुरंजयः ॥ 3-187-14(23132)
स्यादयं ब्राह्मणः सोऽथयुष्माभिर्यो विनाशितः।
पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः ॥ 3-187-15(23133)
ते च दृष्ट्वैव तमृषिं विस्मयं परमं गताः।
महदाश्चर्यमिति वै ते ब्रुवाणा महीपते ॥ 3-187-16(23134)
मृतो ह्ययमितो दृष्टः कथं जीवितमाप्तवान्।
किमेतत्तपसो वीर्यं येनायं जीवितः पुनः।
श्रोतुमिच्छामहे विप्र यदि श्रोतव्यमित्युत ॥ 3-187-17(23135)
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः।
कारणं च प्रवक्ष्यामि हेतुयोगं समासतः।
`मृत्युः प्रभवते येन नास्माकं नृपसत्तमाः ॥ 3-187-18(23136)
शुद्धाचारादनलसाः साध्योपासनतत्पराः।
शुद्धान्नाः शुद्धसदना ब्रह्मचर्यव्रतान्विताः' ॥ 3-187-19(23137)
सत्यमेवाभिजानीमो नानृते कुर्महे मनः।
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः ॥ 3-187-20(23138)
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे।
तेषां हि चरितं ब्रूमस्तस्मान्मृत्युभयं न नः ॥ 3-187-21(23139)
अतिथीनन्नपानेन भृत्यानत्यशनेन च।
संभोज्य शेषमश्नीमस्तस्मान्मृत्युभयं न नः ॥ 3-187-22(23140)
क्षान्ता दान्ताः क्षमाशीलास्तीर्थदानपरायणाः।
पुण्यदेशनिवासाच्च तस्मान्मृत्युभयं न नः।
तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः ॥ 3-187-23(23141)
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः।
गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः ॥ 3-187-24(23142)
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम्।
स्वदेशमगमन्हृष्टा राजानो भरतर्षभ ॥ 3-187-25(23143)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-187-4 उत्तरासङ्गः प्रावरणम् ॥ 3-187-9 जग्मुश्चारिष्टनेम्नोऽथ इति झ. पाठः। अरिष्टनेमिशब्द इकारान्तोऽप्यत्र मन्नन्तोऽपि ज्ञेयः ॥ 3-187-14 तार्क्ष्यः तृक्षस्य कश्यपस्यापत्यम् ॥ 3-187-21 नैषां दुश्चरितं ब्रूमः इति झ. पाठः ॥ 3-187-23 तेजस्विनां योगसिद्धानां देशः सामीप्यम्। तत्सङ्गादित्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|